१४ बोधिसत्त्वपृथिवीविरसमुद्गमपरिवर्तः।
अथ
खलु अन्यलोकधात्वागतानां बोधिसत्त्वानां महासत्त्वानामष्टौ गङ्गानदीवालुकासमा
बोधिसत्त्वा महासत्त्वास्तस्मिन् समये ततः पर्षन्मण्डलादभ्युत्थिता अभूवन्।
तेऽञ्जलिं प्रगृह्य भगवतोऽभिमुखा भगवन्तं नमस्यमाना भगवन्तमेतदूचुः-सचेद्
भगवानस्माकमनुजानीयात्, वयमपि भगवन् इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य तस्यां
सहायां लोकधातौ संप्रकाशेयम वाचयेम लेखयेम पूजयेम, अस्मिंश्च धर्मपर्याये
योगमापद्येमहि। तत्साधु भगवानस्माकमपीमं धर्मपर्यायमनुजानातु। अथ खलु भगवांस्तान्
बोधिसत्त्वानेतदवोचत्-अलं कुलपुत्राः। किं युष्माकमनेन कृत्येन? सन्ति कुलपुत्रा इह
ममैवास्यां सहायां लोकधातौ षष्टिगङ्गानदीवालुकासमानि बोधिसत्त्वसहस्राणि एकस्य
बोधिसत्त्वस्य परिवारः। एवंरूपाणां च बोधिसत्त्वानां षष्ट्येव गङ्गानदीवालुकासमानि
बोधिसत्त्वसहस्राणि, येषामेकैकस्य बोधिसत्त्वस्य इयानेव परिवारः ये मम
परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये इमं धर्मपर्यायं धारयिष्यन्ति
वाचयिष्यन्ति संप्रकाशयिष्यन्ति॥
समनन्तरभाषिता चेयं भगवता वाक्,
अथेयं सहा लोकधातुः समन्तात् स्फुटिता विस्फुटिता अभूत्। तेभ्यश्च स्फोटान्तरेभ्यो
बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राण्युत्तिष्ठन्ते स्म सुवर्णवर्णैः
कायैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागताः, येऽस्यां महापृथिव्यामध
आकाशधातौ विहरन्ति स्म। इमामेव सहां लोकधातुं निश्रित्य ते खल्विममेवंरूपं भगवतः
शब्दं श्रुत्वा पृथिव्या अधं समुत्थिताः, येषामेकैको बोधिसत्त्वः
षष्टिगङ्गानदीवालुकोपमबोधिसत्त्वपरिवारो गणी महागणी गणाचर्यः। तादृशानां
बोधिसत्त्वानां महासत्त्वानां गणीनां महागणीनां गणाचार्याणां
षष्टिगङ्गानदीवालुकोपमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि, ये इतः सहाया
लोकधातोर्धरणीविवरेभ्यः समुन्मज्जन्ते स्म। कः पुनर्वादः
पञ्चाशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः
पुनर्वादश्चत्वारिंशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां
महासत्त्वानाम्? कः पुनर्वादस्त्रिंशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां
बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो विंशतिबोधिसत्त्वपरिवाराणां
बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो
दशगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः
पुनर्वादः पञ्चचतुस्त्रिद्विगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां
महासत्त्वानाम्?
कः पुनर्वाद
एकगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः
पुनर्वादोऽर्धगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्?
कः
पुनर्वादश्चतुर्भाग-षड्भागाष्टभाग-दशभाग-विंशतिभाग-त्रिंशद्भाग-चत्वारिंशद्भाग-पञ्चाशद्भागशतभागसहस्रभागशतसहस्रभागकोटीभागकोटीशतभागकोटीसहस्रभागकोटीशतसहस्रभागकोटी-नयुतशतसहस्रभागगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां
बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो
बहुबोधिसत्त्वकोटीनयुतशतसहस्रपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः
पुनर्वादः कोटीपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः
शतसहस्रपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः सहस्रपरिवाराणां
बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः पञ्चशतपरिवाराणां बोधिसत्त्वानां
महासत्त्वानाम्? कः पुनर्वादश्चतुःशतत्रिशतद्विशतपरिवाराणां बोधिसत्त्वानां
महासत्त्वानाम्? कः पुनर्वादः एकशतपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः
पुनर्वादः पञ्चाशद्बोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्?
पेयालम्।
कः
पुनर्वादश्चत्वारिंशत्रिंशद्विंशतिदशपञ्चचतुस्त्रिद्विबोधिसत्त्वपरिवाराणां
बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वाद आत्मद्वितीयानां बोधिसत्त्वानां
महासत्त्वानाम्? कः पुनर्वादोऽपरिवाराणामेकविहारिणां बोधिसत्त्वानां
महासत्त्वानाम्? न तेषां संख्या वा गणना वा उपमा वा उपनिषद्वा उपलभ्यते, य इह
सहायां लोकधातौ धरणीविवरेभ्यो बोधिसत्त्वा महासत्त्वाः समुन्मज्जन्ते स्म। ते च
उन्मज्ज्योन्मज्ज्य येन स महारत्नस्तूपो वैहायसमन्तरीक्षे स्थितः, यस्मिन् स भगवान्
प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः, भगवता शाक्यमुनिना
तथागतेनार्हता सम्यक्संबुद्धेन सार्धं सिंहासने निषण्णः, तेनोपसंक्रामन्ति स्म।
उपसंक्रम्य च उभययोस्तथागतयोरर्हतोः सम्यक्संबुद्धयोः पादौ शिरोभिर्वन्दित्वा
सर्वांश्च तान् भगवतः शाक्यमुनेस्तथागतस्यात्मीयान् निर्मितांस्तथागतविग्रहान् ये
ते समन्ततो दशसु दिक्ष्वन्योन्यासु लोकधातुषु संनिपतिताः, नानारत्नवृक्षमूलेषु
सिंहासनोपविष्टाः, तान् सर्वानभिवन्द्य नमस्कृत्य च
अनेकशतसहस्रकृत्वस्तांस्तथागतानर्हतः सम्यक्संबुद्धान् प्रदक्षिणीकृत्य
नानाप्रकारैर्बोधिसत्त्वस्तवैरभिष्टुत्य एकान्ते तस्थुः। अञ्जलिं प्रगृह्य भगवन्तं
शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं भगवन्तं च प्रभूतरत्नं तथागतमर्हन्तं
सम्यक्संबुद्धमभिसंमुखं नमस्कुर्वन्ति स्म॥
तेन खलु पुनः
समयेन तेषां बोधिसत्त्वानां महासत्त्वानां पृथिवीविवरेभ्य उन्मज्जतां तथागतांश्च
वन्दमानानां नानाप्रकारैर्बोधिसत्त्वस्तवैरभिष्टुवतां परिपूर्णाः पञ्चाशदन्तरकल्पा
गच्छन्ति स्म। तांश्च पञ्चाशदन्तरकल्पान् स भगवान् शाक्यमुनिस्तथागतोऽर्हन्
सम्यक्संबुद्धस्तूष्णीमभूत्। ताश्चतस्रः पर्षदस्तानेव
पञ्चाशदन्तकल्पांस्तूष्णींभावेनावस्थिता अभूवन्। अथ खलु
भगवांस्तथारूपमृद्ध्यभिसंस्कारमकरोत्, यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन
ताश्चतस्रः पर्षदस्तमेवैकं पश्चाद्भक्तं संजानन्ते स्म। इमां च सहां लोकधातुं
शतसहस्राकाशपरिगृहीतां बोधिसत्त्वपरिपूर्णामद्राक्षुः। तस्य खलु पुनर्महतो
बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेश्चत्वारो बोधिसत्त्वा महासत्त्वाः, ये प्रमुखा
अभूवन्, तद्यथा विशिष्टचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः, अनन्तचारित्रश्च नाम
बोधिसत्त्वो महासत्त्वः, विशुद्धचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः,
सुप्रतिष्ठितचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः। इमे चत्वारो बोधिसत्त्वा
महासत्त्वास्तस्य महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखा अभूवन्। अथ
खलु चत्वारो बोधिसत्त्वा महासत्त्वास्तस्य महतो बोधिसत्त्वगणस्य महतो
बोधिसत्त्वराशेरग्रतः स्थित्वा भगवतोऽभिमुखमञ्जलिं प्रगृह्य भगवन्तमेतदूचुः-कच्चिद्
भगवतोऽल्पाबाधता मन्दग्लानता सुखसंस्पर्शविहारता च? कच्चिद् भगवन् सत्त्वाः
स्वाकाराः सुविज्ञापकाः सुविनेयाः सुविशोधकाः? मा हैव भगवतः
खेदमुत्पादयन्ति॥
その頃、菩薩たちの大菩薩たちは再び一定の時において、地の裂け目から現れ、如来たちを様々な方法で讃え、菩薩賛歌を捧げました。そして、五十中劫が満ちました。それらの五十中劫の間、釈迦牟尼如来は無言のまま坐していました。また、その四人の会衆も同じく五十中劫の間、沈黙の状態でいました。その後、如来は驚異的な神通力を発揮し、その神通力によって四つの会衆は彼が唯一の後続する信仰者であることを認識しました。彼らはこの三千大千世界が菩薩たちで満ちているのを見ました。さらに、多くの菩薩たちの中に四大菩薩がおり、そのうちの顕著な四位の大菩薩がいました。すなわち、性格卓越の菩薩、無限の性格の菩薩、純粋な性格の菩薩、そして確立された性格の菩薩です。これら四位の大菩薩は多くの菩薩たちの集団の代表でした。そして、これらの四位の大菩薩たちは多くの菩薩たちの前で立ち、合掌して如来に向かいこう言いました。「世尊よ、お体には軽い痛みやわずかな不調もなく、快適に過ごされていますでしょうか?また、人々は正しい形を持ち、よく理解され、よく導かれ、よく浄められていますでしょうか?どうか世尊に苦悩が生じませんように。」
अथ खलु ते चत्वारो बोधिसत्त्वा महासत्त्वा
भगवन्तामाभ्यां गाथाभ्यामध्यभाषन्त-
そして、まさにそれら四人の菩薩、偉大なる薩埵たちは、次の二つの詩節で世尊に語りました。
कच्चित् सुखं विहरसि लोकनाथ
प्रभंकर।
आबाधविप्रमुक्तोऽसि स्पर्शः काये
तवानघ॥१॥
世界の主、プラバンカール様、あなたが幸せに過ごしていることを願います。
あなたは障害から解放されました、罪のない人よ、あなたの体に触れてください。
स्वाकाराश्चैव ते सत्त्वाः सुविनेयाः सुशोधकाः।
मा
हैव खेदं जनयन्ति लोकनाथस्य भाषतः॥२॥
また、その存在たちは自らの姿となり、非常に従順で清められるものである。
決して世尊の言葉により悲しみを生じさせない。
अथ खलु भगवांस्तस्य महतो
बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखांश्चतुरो बोधिसत्त्वान्
महासत्त्वानेतदवोचत्-एवमेतत् कुलपुत्राः, एवमेतत्। सुखसंस्पर्शविहारोऽस्मि
अल्पाबाधो मन्दग्लानः। स्वाकाराश्च ममैव ते सत्त्वाः सुविज्ञापकाः सुविनेयाः
सुविशोधकाः। न च मे खेदं जनयन्ति विशोध्यमानाः। तत्कस्य हेतोः? ममैव ह्येते
कुलपुत्राः सत्त्वाः पौर्वकेषु सम्यक्संबुद्धेषु कृतपरिकर्माणः। दर्शनादेव हि
कुलपुत्राः श्रवणाच्च ममाधिमुच्यन्ते, बुद्धज्ञानमवतरन्ति अवगाहन्ते। यत्र येऽपि
श्रावकभूमौ वा प्रतेकबुद्धभूमौ वा कृतपरिचर्या अभुवन्, तेऽपि मयैव एतर्हि
बुद्धधर्मज्ञानमवतारिताः संश्राविताश्च परमार्थम्॥
それゆえ、世尊は多くの菩薩衆の中から四大菩薩に向かってこうおっしゃいました。「その通りです、善男子たちよ、その通りです。私は快適な住処にあり、わずかな苦痛しかなく、ゆっくりと回復しています。そして私の指導を受けているこれら的一切衆生も、よく教えられ、よく導かれ、よく浄められています。彼らが浄められる過程で私に苦しみを与えることはありません。なぜなら、これらの善男子たちは過去の諸仏においてすでに修行を果たしている者たちだからです。見ただけ、聞いただけでも、彼らは私の法により解き放たれ、仏の知恵に入り、深く理解することができます。どのような地位にいる者であれ、声聞の境地や縁覚の境地にいた者も、今や私の仏法によって真理の知恵を得て、それを深く聞き取りました。」
अथ खलु ते
बोधिसत्त्वा महासत्त्वास्तस्यां वेलायामिमे गाथे अभाषन्त—
साधु साधु
महावीर अनुमोदामहे वयम्।
स्वाकारा येन ते सत्त्वाः सुविनेयाः
सुशोधकाः॥३॥
ये चेदं ज्ञान गम्भीरं शृण्वन्ति तव नायक।
श्रुत्वा च अधिमुच्यन्ते उत्तरन्ति च नायक॥४॥
एवमुक्ते
भगवांस्तस्य महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखेभ्यश्चतुर्भ्यो
बोधिसत्त्वेभ्यो महासत्त्वेभ्यः साधुकारमदात्-साधु साधु कुलपुत्राः, ये यूयं
तथागतमभिनन्दथ इति॥
तेन खलु पुनः समयेन मैत्रेयस्य बोधिसत्त्वस्य
महासत्त्वस्य अन्येषां चाष्टानां गङ्गानदीवालुकोपमानां
बोधिसत्त्वकोटीनयुतशतसहस्राणामेतदभवत्-अदृष्टपूर्वोऽयमस्माभिर्महाबोधिसत्त्वगणो
महाबोधिसत्त्वराशिः। अश्रुतपूर्वश्च योऽयं पृथिवीविवरेभ्यः समुन्मज्य भगवतः पुरतः
स्थित्वा भगवन्तं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति भगवन्तं च
प्रतिसंमोदन्ते। कुतः खल्विमे बोधिसत्त्वा महासत्त्वा आगता इति?
अथ
खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आत्मना विचिकित्सां कथंकथां विदित्वा तेषां
गङ्गानदीवालुकोपमानां बोधिसत्त्वकोटीनयुतशतसहस्राणां चेतसैव चेतः परिवितर्कमाज्ञाय
तस्यां वेलायामञ्जलिं प्रगृह्य भगवन्तं गाथाभिगीतेनैतमेवार्थं परिपृच्छन्ति
स्म—
बहुसहस्रा नयुताः कोटीयो च अनन्तकाः।
अपूर्वा
बोधिसत्त्वानामख्याहि द्विपदोत्तम॥५॥
कुतो इमे कथं वापि आगच्छन्ति
महर्द्धिकाः।
महात्मभावा रूपेण कुत एतेष
आगमः॥६॥
धृतिमन्ताश्चिमे सर्वे स्मृतिमन्तो महर्षयः।
प्रियदर्शनाश्च रूपेण कुत एतेष आगमः॥७॥
एकैकस्य च लोकेन्द्र
बोधिसत्त्वस्य विज्ञिनः।
अप्रमेयः परिवारो यथा गङ्गाय
वालिकाः॥८॥
गङ्गावालिकसमा षष्टि परिपूर्णा यशस्विनः।
परिवारो बोधिसत्त्वस्य सर्वे बोधाय प्रस्थिताः॥९॥
एवंरूपाण
वीराणां पर्षवन्तान तायिनाम्।
षष्टिरेव प्रमाणेन गङ्गावालिकया
इमे॥१०॥
अतो बहुतराश्चान्ये परिवारैरनन्तकैः।
पञ्चाशतीय
गङ्गाय चत्वारिंशच्च त्रिंशति॥११॥
समो विंशति गङ्गाया परिवारः
समन्ततः।
अतो बहुतराश्चान्ये येषां दश च पञ्च च॥१२॥
एकैकस्य
परीवारो बुद्धपुत्रस्य तायिनः।
कुतोऽयमीदृशी पर्षदागताद्य
विनायक॥१३॥
चत्वारि त्रीणि द्वे चापि गङ्गावालिकया समाः।
एकैकस्य परीवारा येऽनुशिक्षा सहायकाः॥१४॥
अतो
बहुतराश्चान्ये गणना येष्वनन्तिका।
कल्पकोटीसहस्रेषु उपमेतुं न
शक्नुयात्॥१५॥
अर्धगङ्गा त्रिभागश्च दशविंशतिभागिकः।
परिवारोऽथ वीराणां बोधिसत्त्वान तायिनाम्॥१६॥
अतो
बहुतराश्चान्ये प्रमाणैषां न विद्यते।
एकैकं गणयन्तेन
कल्पकोटीशतैरपि॥१७॥
अतो बहुतराश्चान्ये परिवारैरनन्तकैः।
कोटी कोटी च कोटी च अर्धकोटी तथैव च॥१८॥
गणनाव्यतिवृत्ताश्च
अन्ये भूयो महर्षिणाम्।
बोधिसत्त्वा महाप्रज्ञाः स्थिताः सर्वे
सगौरवाः॥१९॥
परिवारसहस्रं च शतपञ्चाशदेव च।
गणना नास्ति
एतेषां कल्पकोटीशतैरपि॥२०॥
विंशतिद्दश पञ्चाथ चत्वारि त्रीणि द्वे
तथा।
परिवारोऽथ वीराणां गणनैषां न
विद्यते॥२१॥
चरन्त्येकात्मका ये च शान्तिं विन्दन्ति चैककाः।
गणना तेष नैवास्ति ये इहाद्य समागताः॥२२॥
गङ्गावालिकासमान्
कल्पान् गणयेत यदी नरः।
शलाकां गृह्य हस्तेन पर्यन्तं नैव सो
लभेत्॥२३॥
महात्मनां च सर्वेषां वीर्यन्तान तायिनाम्।
बोधिसत्त्वान वीराणां कुत एतेष संभवः॥२४॥
केनैषां देशितो
धर्मः केन बोधीय स्थापिताः।
रोचन्ति शासनं कस्य कस्य
शासनधारकाः॥२५॥
भित्त्वा हि पृथिवीं सर्वां समन्तेन चतुर्दिशम्।
उन्मज्जन्ति महाप्रज्ञा ऋद्धिमन्ता विचक्षणाः॥२६॥
जर्जरा
लोकधात्वेयं समन्तेन कृता मुने।
उन्मज्जमानैरेतैर्हि
बोधिसत्त्वैर्विशारदैः॥२७॥
न ह्येते जातु अस्माभिर्दृष्टपूर्वाः
कदाचन।
आख्याहि नो तस्य नाम लोकधातोर्विनायक॥२८॥
दशादिशा हि
अस्माभिरञ्चितायो पुनः पुनः।
न च दृष्टा इमेऽस्माभिर्बोधिसत्त्वाः
कदाचन॥२९॥
दृष्टो न जातुरस्माभिरेकोऽपि तनयस्तव।
इमेऽद्य
सहसा दृष्टा आख्याहि चरितं मुने॥३०॥
बोधिसत्त्वसहस्राणि शतानि
नयुतानि च।
सर्वे कौतूहलप्राप्ताः पश्यन्ति
द्विपदोत्तमम्॥३१॥
व्याकुरुष्व महावीर अप्रमेय निरोपधे।
कुत
एन्ति इमे शूरा बोधिसत्त्वा विशारदः॥३२॥
तेन खलु पुनः समयेन ये ते
तथागता अर्हन्तः सम्यक्संबुद्धा अन्येभ्यो लोकधातुकोटीनयुतशतसहस्रेभ्योऽभ्यागता
भगवतः शाक्यमुनेस्तथागतस्य निर्मिताः, येऽन्येषु लोकधातुषु सत्त्वानां धर्मं
देशयन्ति स्म, ये भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य समन्तादष्टभ्यो
दिग्भ्यो रत्नवृक्षमूलेषु महारत्नसिंहासनेषूपविष्टाः पर्यङ्कबद्धाः, तेषां
तथागतानामर्हतां सम्यक्संबुद्धानां ये स्वकस्वका उपस्थायकाः, तेऽपि तं महान्तं
बोधिसत्त्वगणं बोधिसत्त्वराशिं दृष्ट्वा समन्तात् पृथिवीविवरेभ्य
उन्मज्जन्तमाकाशधातुप्रतिष्ठितम्, तेऽप्याश्चर्यप्राप्तास्तान् स्वान्
स्वांस्तथागतानेतदूचुः-कुतो भगवन् इयन्तो बोधिसत्त्वा महासत्त्वा आगच्छन्त्यप्रमेया
असंख्येयाः? एवमुक्तास्ते तथागता अर्हन्तः सम्यक्संबुद्धास्तान् स्वान्
स्वानुपस्थायकानेतदूचुः-आगमयध्वं यूयं कुलपुत्रा मुहूर्तम्। एष मैत्रेयो नाम
बोधिसत्त्वो महासत्त्वो भगवतः शाक्यमुनेरनन्तरं व्याकृतोऽनुत्तरायां सम्यक्संबोधौ,
स एतं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिपृच्छति। एष च
भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धो व्याकरिष्यति। ततो यूयं
श्रोष्यथेति॥
अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं
महासत्त्वमामन्त्रयते स्म-साधु साधु अजित। उदारमेतदजित स्थानं यत्त्वं मां
परिपृच्छसि। अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म-तेन हि
कुलपुत्राः सर्व एव प्रयता भवध्वम्। सुसंनद्धा दृढस्थामाश्च भवध्वम्, सर्वश्चायं
बोधिसत्त्वगणः। तथागतज्ञानदर्शनं कुलपुत्रास्तथागतोऽर्हन् सम्यक्संबुद्धः सांप्रतं
संप्रकाशयति, तथागतवृषभितं तथागतकर्म तथागतविक्रीडितं तथागतविजृम्भितं
तथागतपराक्रममिति॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा
अभाषत—
प्रयता भवध्वं कुलपुत्र सर्व
इमां प्रमुञ्चामि
गिरामनन्यथाम्।
मा खू विषादं कुरुथेह पण्डिता
अचिन्तियं ज्ञानु
तथागतानाम्॥३३॥
धृतिमन्त भूत्वा स्मृतिमन्त सर्वे
समाहिताः
सर्विः स्थिता भवध्वम्।
अपूर्वधर्मो श्रुणितव्यु अद्य
आश्चर्यभूतो हि
तथागतानाम्॥३४॥
विचिकित्स मा जातु कुरुध्व सर्वे
अहं हि
युष्मान् परिसंस्थपेमि।
अनन्यथावादिरहं विनायको
ज्ञानं च मे यस्य न
काचि संख्या॥३५॥
गम्भीर धर्माः सुगतेन बुद्धा
अतर्किया येष
प्रेमाणु नास्ति।
तानद्य हं धर्म प्रकाशयिष्ये
शृणोथ मे यादृशका
यथा च ते॥३६॥
अथ खलु भगवानिमा गाथा भाषित्वा तस्यां वेलायां मैत्रयं
बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म-आरोचयामि ते अजित, प्रतिवेदयामि। य इमे अजित
बोधिसत्त्वा अप्रमेया असंख्येया अचिन्त्या अतुल्या अगणनीयाः, ये
युष्माभिरदृष्टपूर्वाः, य एतर्हि पृथिवीविरेभ्यो निष्क्रान्ताः, मयैते अजित सर्वे
बोधिसत्त्वा महासत्त्वा अस्यां सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुध्य
समादापिताः समुत्तेजिताः संप्रहर्षिताः, अनुत्तरायां सम्यक्संबोधौ परिणामिताः। मया
चैते कुलपुत्रा अस्मिन् बोधिसत्त्वधर्मे परिपाचिताः प्रतिष्ठापिता निवेशिताः
परिसंस्थापिता अवतारिताः परिबोधिताः परिशोधिताः। एते च अजित बोधिसत्त्वा महासत्त्वा
अस्यां सहायां लोकधातौ अधस्तादाकाशधातुपरिग्रहे प्रतिवसन्ति।
स्वाध्यायोद्देशचिन्तायोनिशोमनसिकारप्रवृत्ता एते कुलपुत्रा असंगणिकारामा
असंसर्गाभिरता अनिक्षिप्तधुरा आरब्धवीर्याः। एते अजित कुलपुत्रा विवेकारामा
विवेकाभिरताः। नैते कुलपुत्रा देवमनुष्यानुपनिश्राय विहरन्ति असंसर्गचर्याभिरताः।
एते कुलपुत्रा धर्मारामाभिरता बुद्धज्ञानेऽभियुक्ताः॥
अथ खलु
भगवांस्तस्यां वेलायामिमा गाथा अभाषत—
ये बोधिसत्त्वा इमे अप्रमेया
अचिन्तिया येष प्रमाणु नास्ति।
ऋद्धीय प्रज्ञाय श्रुतेनुपेता
बहुकल्पकोटीचरिताश्च ज्ञाने॥३७॥
परिपाचिताः सर्वि मयैति
बोधये
ममैव क्षेत्रस्मि वसन्ति चैते।
परिपाचिताः सर्वि मयैव एते
ममैव पुत्राश्चिमि बोधिसत्त्वाः॥३८॥
सर्वे ति
आरण्यधुताभियुक्ताः
संसर्गभूमिं सद वर्जयन्ति।
असङ्गचारी च ममैति
पुत्रा
ममोत्तमां चर्यनुशिक्षमाणाः॥३९॥
वसन्ति
आकाशपरिग्रहेऽस्मिन्
क्षेत्रस्य हेष्ठा परिचारि वीराः।
समुदानयन्ता
इममग्रबोधिं
उद्युक्त
रात्रिंदिवमप्रमत्ताः॥४०॥
आरब्धवीर्याः स्मृतिमन्त सर्वे
प्रज्ञाबलस्मिन् स्थित अप्रमेये।
विशारदा धर्मु कथेन्ति चैते
प्रभास्वरा पुत्र ममैति सर्वे॥४१॥
मया च प्राप्य
इममग्रबोधिं
नगरे गयायां द्रुममूलि तत्र।
अनुत्तरं वर्तिय
धर्मचक्रं
परिपाचिताः सर्वि इहाग्रबोधौ॥४२॥
अनास्रवा भूत
इयं मि वाचा
श्रुणित्व सर्वे मम श्रद्दधध्वम्।
एवं चिरं प्राप्त
मयाग्रबोधि
परिपाचिताश्चैति मयैव सर्वे॥४३॥
अथ खलु मैत्रेयो
बोधिसत्त्वो महासत्त्वस्तानि च संबहुलानि
बोधिसत्त्वकोटीनयुतशतसहस्राण्याश्चर्यप्राप्तान्यभूवन्, अद्भुतप्राप्तानि
विस्मयप्राप्तानि-कथं नाम भगवता अनेन क्षणविहारेण अल्पेन कालान्तरेण अमी एतावन्तो
बोधिसत्त्वा महासत्त्वा असंख्येयाः समादापिताः, परिपाचिताश्च अनुत्तरायां
सम्यक्संबोधौ। अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-कथमिदानीं
भगवंस्तथागतेन कुमारभूतेन कपिलवस्तुनः शाक्यनगरान्निष्कस्य गयानगरान्नातिदूरे
बोधिमण्डवराग्रगतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा? तस्याद्य भगवन् कालस्य
सातिरिंकाणि चत्वारिंशद्वर्षाणि। तत्कथं भगवंस्तथागतेन इयता कालान्तरेणेदमपरिमितं
तथागतकृत्यं कृतम्, तथागतेन तथागतवृषभिता तथागतपराक्रमः कृतः, योऽयं बोधिसत्त्वगणो
बोधिसत्त्वराशिरियता भगवन् कालान्तरेण अनुत्तरायां सम्यक्संबोधौ समादापितः
परिपाचितश्च? अस्य भगवन् बोधिसत्त्वगणस्य बोधिसत्त्वराशेर्गण्यमानस्य
कल्पकोटीनयुतशतसहस्रैरप्यन्तो नोपलभ्यते। एवमप्रमेया भगवन् इमे बोधिसत्त्वा
महासत्त्वाः, एवमसंख्येयाश्चिरचरितब्रह्मचर्या बहुबुद्धशतसहस्रावरोपितकुशलमूला
बहुकल्पशतसहस्रपरिनिष्पन्नाः॥
तद्यथापि नाम भगवन् कश्चिदेव पुरुषो
नवो दहरः शिशुः कृष्णकेशः प्रथमेन वयसा समन्वागतः पञ्चविंशतिवर्षो जात्या भवेत्। स
वर्षशतिकान् पुत्रानादर्शयेत्, एवं च वदेत्-एते कुलपुत्रा मम पुत्रा इति। ते च
वर्षशतिकाः पुरुषा एवं च वदेयुः-एषोऽस्माकं पिता जनक इति। तस्य च पुरुषस्य
भगवंस्तद्वचनमश्रद्धेयं भवेल्लोकस्य दुःश्रद्धेयम्। एवमेव
भगवानचिराभिसंबुद्धोऽनुत्तरां सम्यक्संबोधिम्, इमे च बोधिसत्त्वा महासत्त्वा
बह्वप्रमेया बहुकल्पकोटीनयुतशतसहस्रचीर्णचरितब्रह्मचर्याः, दीर्घरात्रं हि
कृतनिश्चयाः, बुद्धज्ञाने समाधिमुखशतसहस्रसमापद्यनव्युत्थानकुशलाः
महाभिज्ञापरिकर्मनिर्याताः महाभिज्ञाकृतपरिकर्माणः पण्डिता बुद्धभूमौ,
संगीतकुशलास्तथागतधर्माणाम्, आश्चर्याद्भुता लोकस्य महावीर्यबलस्थामप्राप्ताः।
तांश्च भगवानेवं वदति-मयैते आदित एव समादापिताः समुत्तेजिताः परिपाचिताः,
परिणामिताश्च अस्यां बोधिसत्त्वभूमाविति। अनुत्तरां सम्यक्संबोधिमभिसंबुद्धेन मयैष
सर्ववीर्यपराक्रमः कृत इति। किंचापि वयं भगवंस्तथागतस्य वचनं
श्रद्धयागमिष्यामः-अनन्यथावादी तथागत इति। तथागत एवैतमर्थं जानीयात्।
नवयानसंप्रस्थिताः खलु पुनर्भगवन् बोधिसत्त्वा महासत्त्वा विचिकित्सामापद्यन्ते।
अत्र स्थाने परिनिर्वृते तथागते इमं धर्मपर्यायं श्रुत्वा न पत्तीयिष्यन्ति न
श्रद्धास्यन्ति नाधिमोक्ष्यन्ति। ततस्ते भगवन् धर्मव्यसनसंवर्तनीयेन
कर्माभिसंस्कारेण समन्वागता भविष्यन्ति। तत्साधु भगवन् एतमेवार्थ देशय, यद्वयं
निःसंशया अस्मिन् धर्मे भवेम, अनागतेऽध्वनि बोधिसत्त्वयानीयाः कुलपुत्रा वा
कुलदुहितरो वा श्रुत्वा न विचिकित्सामापद्येरन्निति॥
अथ खलु
मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां
भगवन्तमाभिर्गाथाभिरध्यभाषत—
यदासि जातो
कपिलाह्वयस्मिन्
शाक्याधिवासे अभिनिष्क्रमित्वा।
प्राप्तोऽसि बोधिं
नगरे गयाह्वये
कालोऽयमल्पोऽत्र तु लोकनाथ॥४४॥
इमे च ते आर्य
विशारदा बहू
ये कल्पकोटीचरिता महागणी।
ऋद्धीबले च स्थित
अप्रकम्पिताः
सुशिक्षिताः प्रज्ञबले
गतिंगताः॥४५॥
अनूपलिप्ताः पदुमं व वारिणा
भित्त्वा महीं ये
इह अद्य आगताः।
कृताञ्जली सर्वि स्थिताः सगौरवाः
स्मृतिमन्त
लोकाधिपतिस्य पुत्राः॥४६॥
कथं इमं अद्भुतमीदृशं ते
तं
श्रद्दधिष्यन्तिमि बोधिसत्त्वाः।
विचिकित्सनिर्घातनहेतु भाष तं
त्वं चैव देशेहि यथैव अर्थः॥४७॥
यथा हि पुरुषो इह कश्चिदेव
दहरो भवेया शिशु कृष्णकेशः।
जात्या च सो विंशतिरुत्तरे
वा
दर्शेति पुत्रान् शतवर्षजातान्॥४८॥
वलीहि पलितेहि च ते
उपेता
एषो च नो देहकरो ति ब्रूयुः।
दुःश्रद्दधं तद्भवि लोकनाथ
दहरस्य पुत्रा इमि एवरूपाः॥४९॥
एमेव भगवांश्च नवो वयस्थः
इमे च विज्ञा बहुबोधिसत्त्वाः।
स्मृतिमन्त प्रज्ञाय विशारदाश्च
सुशिक्षिताः कल्पसहस्रकोटिषु॥५०॥
धृतिमन्त प्रज्ञाय
विचक्षणाश्च
प्रासादिका दर्शनियाश्च सर्वे।
विशारदा
धर्मविनिश्चयेषु
परिसंस्तुता लोकविनायकेहि॥५१॥
असङ्गचारी
पवनेव सन्ति
आकाशधातौ सततं अनिश्रिताः।
जानेन्ति वीर्यं सुगतस्य
पुत्राः
पर्येषमाणा इम बुद्धभूमिम्॥५२॥
कथं नु श्रद्धेयमिदं
भवेया
परिनिर्वृते लोकविनायकस्मिन्।
विचिकित्स अस्माक न काचिदस्ति
शृणोमथा संमुख लोकनाथा॥५३॥
विचिकित्स कृत्वान इमस्मि स्थाने
गच्छेयु मा दुर्गति बोधिसत्त्वाः।
त्वं व्याकुरुष्वा भगवन्
यथावत्
कथ बोधिसत्त्वाः परिपाचिता
इमे॥५४॥
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये
बोधिसत्त्वपृथिवीविवर-
समुद्गमपरिवर्तो नाम चतुर्दशमः॥