२७ अनुपरीन्दनापरिवर्तः।
嘱累品
27件の変更が行われました。
अथ
खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्ध उत्थाय तस्माद्धर्मासनात्
सर्वांस्तान् बोधिसत्त्वान् पिण्डीकृत्य दक्षिणेन पाणिना
ऋद्धयभिसंस्कारपरिनिष्पन्नेन दक्षिणहस्तेष्वध्यालम्ब्य तस्यां
वेलायामेतदवोचत्-इमामहं कुलपुत्रा असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां
सम्यक्संबोधिं युष्माकं हस्ते परिन्दामि अनुपरिन्दामि निक्षिपामि उपनिक्षिपामि। यथा
विपुला वैस्तारिकी भवेत्, तथा युष्माभिः कुलपुत्राः करणीयम्। द्वैतीयकमपि
त्रैतीयकमपि भगवान् सर्वावन्तं बोधिसत्त्वगणं दक्षिणेन
पाणिनाअध्यालम्ब्यैतदवोचत्-इमामहं कुलपुत्रा
असंख्येयकल्पकोटीनयुतशतसहस्रसमुदानीतामनुत्तरां सम्यक्संबोधिं युष्माकं हस्ते
परिन्दामि अनुपरिन्दामि निक्षिपामि उपनिक्षिपमि। युष्माभिः कुलपुत्र उद्ग्रहीतव्या
धारयितव्या वाचयितव्या पर्यवाप्तव्या देशयितव्या प्रकाशयितव्या। सर्वसत्त्वानां च
संश्रावयितव्या। अमात्सर्योऽहं कुलपुत्रा अपरिगृहीतचित्तो विशारदो बुद्धज्ञानस्य
दाता, तथागतज्ञानस्य स्वयंभूज्ञानस्य दाता। महादानपतिरहं कुलपुत्राः। युष्माभिरपि
कुलपुत्रा ममैवानुशिक्षितव्यम्। अमत्सरिभिर्भूत्वेमं तथागतज्ञानदर्शनं
महोपायकौशल्यमागतानां कुलपुत्राणां कुलदुहितृणां च अयं धर्मपर्यायः संश्रावयितव्यः।
ये च अश्राद्धाः सत्त्वास्तेऽस्मिन् धर्मपर्याये समादापयितव्याः। एवं युष्माभिः
कुलपुत्रास्तथागतानां प्रतिकारः कृतो भविष्यति॥
ある日、世尊釈迦牟尼如来・阿羅漢・正等覚者は、その法座から立ち上がり、すべての菩薩たちを集め、神通力によって成就された右手で彼らの手を取り、その時こう語った。
「善男子よ、私は無数の劫の数え切れない時を経て得られた無上の正等覚を、あなた方の手に委ねる。委ねて、置き、預ける。あなた方が広大に広げるように。」
二度目、三度目にも、世尊は全ての菩薩の衆に右手を取り、こう語った。
「善男子よ、私は無数の劫の数え切れない時を経て得られた無上の正等覚を、あなた方の手に委ねる。委ねて、置き、預ける。善男子よ、あなた方はこれを受け取り、保持し、語り、行き渡らせ、説き、明らかにし、すべての衆生に伝えなければならない。
私は、善男子よ、嫉妬心なく、仏の智慧の与え手、如来の智慧、自然の智慧の与え手である。私は大いなる布施の主である。善男子よ、あなた方も私に従って学ばなければならない。嫉妬心なく、この如来の智慧の教えを、善男子、善女人たちに伝えなければならない。信仰心のない衆生たちもこの法門に導かれるべきである。このようにして、あなた方は如来に報いることになるであろう。」
एवमुक्तास्ते
बोधिसत्त्व महासत्त्व भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेन महता
प्रीतिप्रामोद्येन स्फुता अभूवन्। महच्च गौरवमुत्पाद्य येन भगवान्
शाक्यमुनिस्तथागतोऽर्हन सम्यक्संबुद्धस्तेनावनतकायाः प्रणतकायाः संनतकायाः
शिरांस्यवनाम्य अञ्जलिं प्रगृह्य सर्व एकस्वरनिर्घोषेण भगवन्तं शाक्यमुनिं
तथागतमर्हन्तं सम्यक्संबुद्धमेतदूचुः- तथा भगवन् करिष्यामो यथा तथागत आज्ञापयति।
सर्वेषां च तथागतानामाज्ञां करिष्यामः, परिपूरयिष्यामः। अल्पोत्सुको भगवान् भवतु
यथासुखविहारी। द्वैतीयकमपि, त्रैतीयकमपि स सर्वावान् बोधिसत्त्वगण एकस्वरनिर्घोषेण
एवं भाषते स्म-अल्पोत्सुको भगवान् भवतु यथासुखविहारी। तथा भगवन् करिष्यामो यथा
तथागत आज्ञापयति। सर्वेषां च तथागतानामाज्ञां परिपूरयिष्यामः॥
अथ
खलु भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः सर्वांस्तांस्तथागतानर्हतः
सम्यक्संबुद्धानन्येभ्यो लोकधातुभ्यः समागतान् विसर्जयति स्म। यथासुखविहारं च तेषां
तथागतानामारोचयति स्म-यथासुखं तथागता विहरन्त्वर्हन्तः सम्यक्संबुद्धा इति। तं च
तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य रत्नस्तूपं यथाभूमौ
स्थापयामास। तस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य
यथासुखविहारमारोचयामास॥
इदमवोचद् भगवानात्तमनाः। ते चाप्रमेया
असंख्येयास्तथागता अर्हन्तः सम्यक्संबुद्धा अन्यलोकधात्वागता रत्नवृक्षमूलेषु
सिंहासनोपविष्टाः, प्रभुतरत्नश्च तथागतोऽर्हन् सम्यक्संबुद्धः स च सर्वावान्
बोधिसत्त्वगणः, ते च विशिष्टचारित्रप्रमुखा अप्रमेया असंख्येया बोधिसत्त्व
महासत्त्वा ये पृथिवीविवरेभ्योऽभ्युद्गताः, ते च महाश्रावकाः ताश्च चतस्रः पर्षदः,
सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥
इति
श्रीसद्धर्मपुण्डरीके धर्मपर्यायेऽनुपरीन्दनापरिवर्तो नाम सप्तविंशतिमः
समाप्तः॥
かくのごとく、釈迦牟尼仏如来応供正遍覚によって、大菩薩摩訶薩たちに説かれたとき、彼らは大きな喜びと歓喜に満ちた。大きな敬意を抱き、釈迦牟尼仏如来応供正遍覚の前に、頭を下げ、合掌し、皆同じ声で釈迦牟尼仏如来応供正遍覚にこう言った。「仏陀よ、如来の命令に従います。すべての如来の命令を全うします。仏陀は、安楽に過ごしてください。」また、第二の会合、第三の会合でも、すべての菩薩たちは同じ声でこう言った。「仏陀よ、安楽に過ごしてください。仏陀よ、如来の命令に従います。すべての如来の命令を全うします。」
そして、釈迦牟尼仏如来応供正遍覚は、すべての如来応供正遍覚たち、他の世界から集まった者たちを、遣わした。そして、安楽に過ごしてくださいと告げた。「如来応供正遍覚たちは、安楽に過ごしてください。」そして、その仏陀、無数の宝の如来応供正遍覚の宝塔を地に立てた。また、その如来応供正遍覚にも、安楽に過ごしてくださいと告げた。
この言葉を、仏陀は説かれた。そして、計り知れない無数の如来応供正遍覚、他の世界から来た者たちは、宝樹の下に、獅子座に座り、無数の宝の如来応供正遍覚、そしてすべての菩薩たち、そして、特異な行いを持ち、計り知れない無数の菩薩摩訶薩たちが、地中から現れ、そして、大弟子たち、そして四つの衆、神、人間、阿修羅、そして、天人が、仏陀の言葉を喜んだ。
ここに、妙法蓮華経の法会、第27章、解説と変更の終わり。
*
* * * * *
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो
ह्यवदत्।
तेषां च यो निरोध एवं वादी महाश्रमणः॥